Immunity Boosters

Следующий


Powerful EkadashMukh Hanuman Kavacham | Mantra for Power and Strength

260 Просмотры
Vaaruni Agarwal
3
Опубликован в 25 May 2019 / В Домашние животные

This powerful Hanuman Kavach is a powerful mantra, which when chanted with full belief renders highly positive effects. These effects are known to break down any black magic and negative energy from the person and provide him with immense will power, strength and power. Here, we present the EkadashMukh Hanuman Kavacham, with Lyrics.


ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः
प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता
छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।

मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ।
सर्वकामार्थसिद्ध्यर्थं जप एवमुदीरयेत् ।।

ॐ स्फ्रें-बीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ।
क्रौं-बीजात्मा नयनयोः पातु मां वानरेश्वरः ।।

क्षं-बीजरूपः कर्णौ मे सीताशोकविनाशनः ।
ग्लौं-बीजवाच्यो नासां मे लक्ष्मणप्राणदायकः।।

वं-बीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ।
ऐं-बीजवाच्यो हृदयं पातु मे कपिनायकः ।।

वं-बीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ।
ह्रां-बीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।।

ह्रसौं-बीजमयो मध्यं पातु लङ्काविदाहकः ।
ह्रीं-बीजधरः पातु गुह्यं देवेन्द्रवन्दितः ।।

रं-बीजात्मा सदा पातु चोरू वार्धिलंघनः ।
सुग्रीवसचिवः पातु जानुनी मे मनोजवः।।

पादौ पादतले पातु द्रोणाचलधरो हरिः ।
आपादमस्तकं पातु रामदूतो महाबलः।।

पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ।
दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः ।।

वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ।
वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा ।।

क्रोडास्यः पातु मां नित्यमैशान्यां रुद्ररूपधृक् ।
ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा ।।

रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ।
इत्येवं रामदूतस्य कवचं यः पठेत्सदा ।।

एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ।
रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् ।।

पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ।
स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।।

एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ।।

ॐ अगस्त्यसारसंहितायामेकादशमुख हनुमत्कवचं सम्पूर्णम् ।।

Показать больше
0 Комментарии sort Сортировать по

Комментарии Facebook

Следующий